Sanskrit

Essay on Anushasan in Sanskrit || अनुशासन का महत्व

Published

on

संस्कृत में अनुशासन का निबंध

नमस्कार! दोस्तों अनुशासन का महत्व (Essay on Anushasan in Sanskrit) छात्र जीवन के अलावा सभी मनुष्य की दिनचर्या में एक बहुत ही महत्वपूर्ण स्थान रखता है क्योंकि अनुशासन विहीन मनुष्य जीवन में कुछ खास नहीं कर पाता है आज के इस आर्टिकल में हम अनुशासन के महत्व के बारे में जानेंगे संस्कृत भाषा में जो कि परीक्षा के दृष्टिकोण से भी महत्वपूर्ण है क्योंकि अनुशासन पर निबंध लेखन परीक्षा में पूछा जाता है

Anushasan Essay in Sanskrit 10 Lines

1.अनुशासनम्, व्यवस्थाया नियमस्य च नामान्तरम् अस्ति ।

2.साफल्याय उन्नतये च अनुशासनम् अनिवार्यं भवति ।

3.अतः एव वैदिकमन्त्रे उच्यते ‘सत्यं बृहदृतमुग्रं दीक्षा तपः पृथिवीं धारयन्ति’ इति ।

4.आरक्षका अपि यदि नियमं नानुतिष्ठेयुः तदा चौराः स्वतन्त्रा भूत्वा स्वकार्य विदध्युः ।

5.अनुशासनविहीना सेना शस्त्रास्त्रसंयुता अपि असम्बद्धजनसम्म इव न कदापि विजयते, आत्मानमेव सा हन्ति ।

6.अस्माकं शरीरेऽपि प्रकृत्या सर्वाण्यंगानि नियमपूर्वक कर्म कार्यन्ते ।

7.सूर्यः नियमतः उदेति, नियमतश्चास्तमेति, नियमतः एव ऋतवो भवन्ति,

8.कदाचिद् यदि बहुषु वर्षेषु एकदापि अतिवृष्टिरनावृष्टिव भवति तदा जनानां कष्टानि असह्यानि जायन्ते,

9.यदि अस्माकं जीवने को ऽपि नियमो न स्यात् तदा वास्तविकी उन्नतिः शान्तिश्च न लभ्यते ।

10.एवमेव व्यक्तेः समाजस्य च जीवने ऽपि अनुशासनस्य अद्वितीयं महत्त्वं वर्तते ।

अनुशासन का महत्व संस्कृत भाषा में

अनुशासनम्, व्यवस्थाया नियमस्य च नामान्तरम् अस्ति । सर्वस्मिन् जगति वयं नियमं प्रकृतेरनुशासनं वा पश्यामः । अतः एव वैदिकमन्त्रे उच्यते ‘सत्यं बृहदृतमुग्रं दीक्षा तपः पृथिवीं धारयन्ति’ इति । यानि तत्त्वानि पृथिवीं धारयन्ति तेषु ऋतस्य नियमस्यानुशासनस्य वा महत्त्वपूर्ण स्थानमस्ति । सूर्यः नियमतः उदेति, नियमतश्चास्तमेति, नियमतः एव ऋतवो भवन्ति, नियमत एव ग्रहनक्षत्राणि निश्चित मार्गे परिभ्रमन्ति, नो चेत् सर्वत्र महान् विप्लवः स्यात् । विचार्यतां यदि स्वेच्छया रविरपि कदाचित् प्रकाशेत न वा प्रकाशेत, यदि वा नद्यः स्वेच्छया जलं वहन्तु न वा वहन्तु तदा किं भवेत् ।

कदाचिद् यदि बहुषु वर्षेषु एकदापि अतिवृष्टिरनावृष्टिव भवति तदा जनानां कष्टानि असह्यानि जायन्ते, यदि पुनः कश्चिदपि क्रमः कदापि न स्यात् तह का दशा जायेत इति सुखम् अनुमातुं शक्यते । एवमेव व्यक्तेः समाजस्य च जीवने ऽपि अनुशासनस्य अद्वितीयं महत्त्वं वर्तते । साफल्याय उन्नतये च अनुशासनम् अनिवार्यं भवति । यदि अस्माकं जीवने को 5 पि नियमो न स्यात् तदा वास्तविकी उन्नतिः शान्तिश्च न लभ्यते । कश्चित जनः केवलं धन कामयमानः रात्रौ वा दिवा वा न कदापि स्वपिति तदा किं धनेन सः सुखी भवति ? तथैव यदि, समाजे सर्वे जनाः केवलं धनसंग्रहतत्पराः स्युस्तदा कथं चलेत् जीवनयात्रा । सर्वत्र हि तदा धनार्थं संघर्षः परस्परं घातप्रतिघाताश्च स्युः । समाजे ऽपि यस्य यत् कार्यं निर्धारितं तत् तेनैव कार्यं नो इतरेण । क्रीडायां प्रत्येक क्रीडकस्य स्थानं निश्चित भवति, यदि पुनरसौ स्वस्थानं परित्यज्य अन्यत् कुरुते, तदा प्रतिस्पर्धायां विजयो नावाप्यते

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version