Sanskrit

Essay on Mumbai in Sanskrit Language

Published

on

Sanskrit Essay on Mumbai City

नमस्कार! प्यारे अभ्यार्थियों यह पोस्ट उन सभी विद्यार्थियों के लिए बहुत ही महत्वपूर्ण है जो कि अपनी आने वाली परीक्षाओं की तैयारी में लगे हुए हैं क्योंकि इन परीक्षाओं में निबंध मुख्य रूप से पूछे जाते हैं और यदि आप मुंबई महानगर का निबंध संस्कृत भाषा में चाहते हैं तो आपकी खोज यहां पूरी हो जाएगी क्योंकि हम आपके साथ शेयर करने जा रहे हैं (Essay on Mumbai in Sanskrit Language) मुंबई महानगर का निबंध संस्कृत भाषा में,

मुंबई महानगर का निबंध संस्कृत भाषा में

मुम्बई-महानगरं भारतस्य बृहत्तमं नगरं विद्यते । इदं महानगरं महाराष्ट्रराज्ये स्थितम् अस्ति । मुम्बई-महानगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः तत्र बहूनि समुद्रतटानि सन्ति । महानगरेऽस्मिन् बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् महानगरे त्रीणी समुद्रतटानि प्रसिद्धानि सन्ति । जुहू-समुद्रतटं, चौपाटी-समुद्रतटं, गोराई-समुद्रतटं च । तत्र “मरीन ड्राईव” इत्येतत् स्थलं वर्तते । एतत्स्थलं “क्वीन्स् नेकलेस्” इति नाम्ना अपि ज्ञायते । मुम्बई-महानगरे धार्मिकस्थलानि अपि सन्ति । सिद्धिविनायक-मन्दिरं, “हाजी अली मस्जिद्” च अस्य नगरस्य प्रसिद्धे धार्मिकस्थले स्तः । अनयोः मन्दियोः वास्तुकला प्रायः समाना एव अस्ति । अनयोः स्थलयोः जनसम्मर्दः अपि सर्वाधिकः भवति । मुम्बई-नगरस्य रात्रिजीवनं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । यतः जनाः दिवाकाले व्यवसायं कुर्वन्ति । किन्तु रात्रिकाले भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे द्युतक्रीडायाः स्थानानि अपि सन्ति । जनः द्युतक्रीडां कर्तुं तत्र गच्छन्ति

महाराष्ट्र-राज्यस्य सर्वकारेण मुम्बई-महनगरस्य दर्शनाय बसयानानि प्रचालितानि सन्ति । अतः ये जनाः कारयानैः मुम्बई-नगरस्य भ्रमणं कर्तुं नेच्छन्ति, तैः बसयानद्वारा भ्रमणं कर्त्तव्यम् । तानि बसयानानि “गेटवे ऑफ् इण्डिया” इत्यस्मात् स्थलात् मुम्बई-दर्शनं कारयन्ति । सायंकाले मुम्बई-नगरस्य भ्रमणं कृत्वा पुनः “गेटवे ऑफ् इण्डिया” इतीदं स्थलं प्राप्नुवन्ति । अनेन प्रकारेण यात्रिकाः मुम्बई-महानगरस्य प्रमुखाणि स्थलानि दृष्टुं शक्नुवन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ, वर्षर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।

मुम्बई-महानगरं भूमार्गेण सम्पूर्ण-भारतस्य प्रसिद्धनगरैः सह सम्बद्धम् अस्ति । महानगरमिदम् उत्तरदिशि आगरा-मार्गेण, पूर्वदिशि इन्दौर-मार्गेण, उत्तरदिशि अहमदाबाद-मार्गेण च सह सम्बद्धम् अस्ति ।

Can Read Also:

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version