Sanskrit

Essay on Sanskrit Language in Sanskrit || For Class 10th

Published

on

Sanskrit Bhasha ka Mahatva Essay in Sanskrit

नमस्कार! प्यारे अभ्यर्थियों आज के आर्टिकल मैं हम संस्कृत भाषा का महत्व का निबंध (Essay on Sanskrit Language in Sanskrit) संस्कृत भाषा में शेयर करने जा रहे हैं जो कि उन सभी विद्यार्थियों के लिए बहुत ही उपयोगी है जिनका एक विषय संस्कृत के रूप में है, अतः संस्कृत पढ़ने वाले विद्यार्थियों के लिए निबंध याद होना बहुत ही जरूरी है क्योंकि परीक्षा में निबंध से संबंधित प्रश्न मुख्य रूप से पूछा जाता है हमारे आर्टिकल मैं निबंध बहुत ही सरल भाषा में शेयर किया है जिससे कि आप इसे आसानी से याद कर सके और परीक्षा में अच्छे अंक अर्जित कर सके

मम प्रिय भाषा संस्कृत निबंध

1.संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते ।

2.संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा ।

3.संस्कृता वाक् , भारती , सुरभारती , अमरभारती , अमरवाणी , सुरवाणी , गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा ।

4.भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।

5.संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।

6.तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।

7.व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति ।

8.अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति ।

9.संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।

10.संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।

11.वेद ,शास्त्र ,पुराण ,इतिहास ,काव्य, नाटक, दर्शनादिभिः ,अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।

12.न केवलं धर्म, अर्थ, काम ,मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक , नैतिक ,आध्यात्मिक, लौकिक , पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।

13.संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति

14.संस्‍कृतभाषामेव विश्‍वसाहित्‍य सर्वचाचीनग्रन्‍था: चत्‍वारो वेदा: संति येषा महत्‍वमघाति सर्वेअपरि वर्तते

15.संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते

16.संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति

17.प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत

18.संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति

19.अव एव उच्‍यते संस्‍कृति: संस्‍कृताश्रिता

20.अश्‍वघेाष कालिदास दडि भवभुति जयदेव आदि कवि प्रभ्रतयो महाकवयो नाटकाराश्‍च संस्‍कृतभाषाया: अस्ति

संस्कृतभाषायाः महत्त्वम् (Importance of Sanskrit)

देवभाषा वेदभाषा च भवति संस्कृतं सम्यक् कृतं इति संस्कृतं । इयं भाषा देववाणी इति कथ्यते ।संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म ।

संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति । तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति , यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां , गृह्यसूत्राणां , धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति ।

संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः ।

Can Read Also:-

1. MCQ Questions for Class 10 Sanskrit Chapter 1 Click Here
2. Paryayvachi Shabd in Sanskrit for Class 10 Click Here
3. फलों के नाम संस्कृत में Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version