Sanskrit

Essay on Peacock in Sanskrit

Published

on

My Favourite Bird Peacock Essay in Sanskrit

दोस्तों इस आर्टिकल में आज हम जानेंगे भारत के राष्ट्र पक्षी मोर का निबंध संस्कृत (Essay on Peacock in Sanskrit) में जो कि कक्षा आठवीं, नौवीं और दसवीं की परीक्षा में भी पूछा जाता है अति आर्टिकल आपके लिए परीक्षा के दृष्टिकोण से बहुत ही महत्वपूर्ण है

राष्ट्रीय पक्षी मोर का निबंध संस्कृत में

1. मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते ।

2.मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति ।

3.दीर्घः नीलः कण्ठः व्यजनसद्दशं पुच्छं, रमणीया शिखा इत्यादिभिः युक्तः मयूरः पक्षिजातिषु एव सुन्दरतमः ।

4.प्रतिपिञ्छम् ‘चन्द्रकः नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति ।

5.भगवान् श्रीकृष्णः स्वस्य शिखायां मयूरपिञ्छं धरति ।

6.भगवतः शिवस्य पुत्रस्य कार्तिकेयस्य वाहनम् अपि मयूरः एव ।

7.मयूराः वर्षाकाले एव अधिकं कूजन्ति ।

8. चक्रवर्तिना शाहजहानेन निर्मितं मयूरसिंहासनं तु जागति प्रसिद्धम् ।

9.केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति।

10.तस्य मनोहरः बर्हः भवति ।

Mayur Essay in Sanskrit

मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव ‘मयूरयष्टिः’ इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य ‘केका’ इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।एषः मयूरः स्कन्दस्य (कुमारस्वामिनः/षण्मुखस्य) वाहनम् । केचन एनं सरस्वत्याः अपि वाहनमिति कथयन्ति । मयूरस्य केकी , भुजङ्गभुक् , शिखी , नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य बर्हे विविधाः वर्णाः सम्भूय वर्तन्ते । तेषां सम्मेलनं ‘जातीयसमैक्यं’ सूचयति । तस्मात् मयूरः ‘जातीयविहङ्गः’ इति निर्णीतः । मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते ।

तस्मात् मयूरः ‘जातीयविहङ्गः’ इति निर्णीतः । मयूरः भारतदेशे प्रायः सर्वत्र द्दश्यते । क्रि.पू. ३२६ तमे वर्षे चक्रवर्ती अलेकसाण्डारः यदा आक्रमणाय भारतम् आगतवान् तदा सः मयूराणां सौन्दर्यं दृष्ट्वा नितरां व्यामुग्धः सन् ‘प्रतिगमनसमये केचन मयूराः नेतव्याः ’ इति निर्णीतवान् आसीत् इति श्रूयते । संस्कृतभाषायां मयूरस्य पर्यायपदम् अस्ति बर्ही इति एतस्य बर्हे नेत्ररुपाः आकाराः बहवः भवन्ति इत्यतः एताद्दशं नाम तस्य ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here

Diwali Essay in Sanskrit for Class 10 Click Here

Essay on Sadachar in Sanskrit for Class 10 Click Here

Essay on Sanskrit Language in Sanskrit Click Here

Kalidas Nibandh in Sanskrit for Class 10 Click Here

Essay on Holi in Sanskrit for Class 10th Click Here

10 Sentence on Raksha Bandhan in Sanskrit Click Here

उद्यानम् का निबंध संस्कृत भाषा में Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *

Trending

Exit mobile version