Computer Essay in Sanskrit Language

Essay on Computer in Sanskrit Language

हेलो! दोस्तों आज के आर्टिकल में हम कंप्यूटर के महत्व (Computer Essay in Sanskrit Language) के बारे में जानेंगे संस्कृत भाषा में, आज के आधुनिक युग में कंप्यूटर का हमारे जीवन में एक विशेष महत्व हो गया है इसका उपयोग हर क्षेत्र में किया जाने लगा है, कंप्यूटर ने हमारे द्वारा किए जाने वाले कामों को एक गति प्रदान की है, जिससे कठिन से कठिन काम भी आसानी से कम समय में किए जा सकते हैं, आइए जानते हैं कंप्यूटर के बारे में संस्कृत भाषा में-

सङ्गणकम् [Computer] पर निबंध संस्कृत में

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् ‘०’ अङ्कस्य अर्थः ‘न’ अस्ति, ‘१’ अङ्कस्य अर्थः ‘आम्’ अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते ।गणकयन्त्रं चार्लस् ब्याबेज्महोदयेन आविष्कृतम् । अपरा महिला लेडी आडा अपि अस्य यन्त्रस्य आविष्करणकार्ये धनसाहाय्यं कृत्वा तस्य परिज्ञानप्राप्तये साहाय्यं कृतवती ।पञ्चम-परम्परीय-गणकयन्त्रस्य आविष्करणकार्यं प्रचलदस्ति यस्मिन् कृतकबुद्धियोजनस्य प्रयत्नः प्रचलति ।

अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति

 

10 Sentences on a Computer in Sanskrit

1. हङ्गेरीदेशस्य गणितज्ञः जानवान् न्यूमन् अस्मिन् यन्त्रे कथं कार्यविषयान् संगृह्य स्थापयितुं शक्यम् इति आविष्कृतवान् ।

2.ईदृशम् संगणकं आङ्लभाषायां stored programme computer इति, संस्कृतभाषया संगृहीतविधिसंगणकम् इति च अभिधीयते।

3.गणकयन्त्रं चार्लस् ब्याबेज्महोदयेन आविष्कृतम्

4.विश्वे प्रथमगणकयन्त्रम् अमेरिकादेशस्य पेन्सिल्वेनिया विश्वविद्यालयस्य विद्युद्यन्त्रशाखायां निर्मितम् । एक्कर्ट् तथा म्याकले महोदयाभ्यां गणकयन्त्रं परिष्कृतम् ।

5.अद्यपर्यन्तं नानाविधानि गणकयन्त्राणि आविष्कृतानि ।

6.अधुना अस्माकं पुरतः चतुर्थ-परम्परीय-गणकयन्त्रं वर्तते ।

7.यथा धान्यानां पिष्टरूपप्राप्तये धान्यमर्दनयन्त्रस्य एकस्मिन् द्वारे धान्यं स्थाप्यते चेत् अन्यस्मात् द्वारात् पिष्टरूपं प्राप्यते ।

8.तथैव गणकयन्त्रे विषयाः पूर्यन्ते चेत् इदं यन्त्रं विषयाणाम् अनेकानि रूपाणि प्रदर्शयति ।

9.आङ्गलभाषायां इदं इन् पुट् (Input) इति, संस्कृतभाषया निवेश्यं इति चाभिधीयते

10.पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10     Click Here
Diwali Essay in Sanskrit for Class 10              Click Here
Essay on Sadachar in Sanskrit for Class 10  Click Here 
Essay on the Sanskrit Language in Sanskrit       Click Here
Kalidas Nibandh in Sanskrit for Class 10     Click Here
Essay on Holi in Sanskrit for Class 10th       Click Here
उद्यानम् का निबंध संस्कृत भाषा में  Click Here
10 Sentence on Raksha Bandhan in Sanskrit  Click Here
Essay on Chhattisgarh in Sanskrit  Click Here
Advertisement

Leave a Comment

error: Content is protected !!