Sanskrit

Essay on River Ganga in Sanskrit

Essay on River Ganga in Sanskrit Language

नमस्कार! दोस्तों आप सभी जानते हैं कि गंगा नदी (Essay on River Ganga in Sanskrit) हमारे देश की एक पवित्र नदियों में से एक है हिंदू धर्म के लोग इसकी पूजा और आराधना करते हैं यह उनकी आस्था का प्रतीक है इसी नदी के बारे में हम आज आपके साथ 10 वाक्य संस्कृत भाषा में शेयर करने जा रहे हैं जो कि परीक्षा में निबंध के रूप में पूछा जा सकता है

10 Lines on Ganga in Sanskrit

1. गङ्गाया अखिलविश्वस्य नदीषु महत्त्वपूर्णं स्थानं वर्तते।

2.सुरधुनीयम्, भागीरथी, विष्णुनदी, जाह्नवी आदि अस्याः अन्यानि नामानि सन्ति।

3.गङ्गा हिमालयात् नि:सृता।

4.भारतवर्षस्य धरित्रीं शस्यश्यामला निर्मातुं गङ्गायाः उपकारः अनिर्वचनीयः।

5.भारतवर्षस्य अनेकानि प्रमुखानि नगराणि अस्याः तटे स्थिताः सन्ति।

6.गङ्गायाः पावने कूले अमेकानि तीर्थस्थानामि सन्ति।

7.गङ्गोदकं स्वच्छं शीतलं, तृषीशामकं, रुचिवर्द्धकं, सुस्वादु, रोगापहारि च भवति।

8.गङ्गायाः जले कीटाणवः न जायन्ते।

9.जना इमां ‘गङ्गामाता इति सम्बोधयन्ति।

10.अद्य मानव: अज्ञानवशात् प्रमादात् च सर्वकल्याणकारिणीं गङ्गां प्रदूषयति।

Long Essay on River Ganga in Sanskrit

भारतवर्षस्य सर्वासां नदीनां गङ्गव श्रेष्ठा पुण्यतमा, देवी च सा मन्यते । भागीरथी जाह्नवी चेत्यप्यस्या एव द्वे अपरे नाम्नी । कथम् इयं भागीरथी कथं चेयं जाह्नवीति विषये विभिन्नाः कथाः प्रचलिताः । एके वदन्ति यद्यदा त्रिशूलधरः त्रिनेत्रः तेजस्वी भगवान् शङ्करस्तपश्चचार तदा इयं गङ्गा नदी तस्य शिरसः उगता। अन्ये कथयन्ति यद् यदा गङ्गा स्वर्गात् पतिता तदा सा शिवस्य जटासु विलुप्ता, पश्चात् च शिवेन स्वयमेव तस्याः प्रवाहो मुक्तः । परमेतानि सर्वाण्याख्यानानि कल्पितानि । वस्तुतः हिमाच्छादितं हिमगिरिशिखरमेव शिवशीर्षरूपेण कल्पितम् । इमाः पौराणिक्यः आख्यायिका भगवतशिवस्य शक्तिमात्रमेव दर्शयन्ति । अथवा तैः आख्यानैस्तपसो महिमापि ज्ञायते यत्तपसा मनुजोऽप्राप्यम् अपि प्राप्तुम् शक्तः । तप एवास्मिन् विश्वस्मिन् विश्वे प्राणिनं निश्चिन्तं करोति । तपसो बलेन भगीरथः इमां नदीं स्वर्गात् पृथ्वीं प्रति मनुष्यहिताय आनयत् । अतः अस्या नाम भागीरथी इति प्रसिद्धम् ।अद्यापि गङ्गायाः शीतले जले स्नानं पुण्यजनक मन्यते। विदेषेष्वपि भारतभक्ता जना गङ्गाजलम् अमृतमिव बहुमूल्यं मत्वा शिरसि धारयन्ति तच्च रक्षन्ति ।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here

Diwali Essay in Sanskrit for Class 10 Click Here

Essay on Sadachar in Sanskrit for Class 10 Click Here

Essay on Sanskrit Language in Sanskrit Click Here

Kalidas Nibandh in Sanskrit for Class 10 Click Here

Essay on Holi in Sanskrit for Class 10th Click Here

10 Sentence on Raksha Bandhan in Sanskrit Click Here

उद्यानम् का निबंध संस्कृत भाषा में Click Here

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button