Sanskrit

Essay on Sardar Vallabhbhai Patel in Sanskrit

Sardar Vallabhbhai Patel Essay in Sanskrit

नमस्कार! दोस्तों आज के इस आर्टिकल में हम भारत में ‘लौह पुरुष’ के नाम से (Essay on Sardar Vallabhbhai Patel in Sanskrit) प्रसिद्ध व्यक्तित्व सरदार वल्लभभाई पटेल का निबंध संस्कृत भाषा में शेयर करने जा रहे है, जो कि विद्यार्थियों के साथ- साथ संस्कृत का ज्ञान अर्जित करने के इच्छुक अन्य व्यक्तियों के लिए बहुत उपयोगी है

संस्कृत को विशेष महत्व दिया जाने लगा है इस बात को ध्यान में रखते हुए हमें संस्कृत के बारे में हमें अधिक से अधिक ज्ञान अर्जित करना चाहिए

* लोह पुरुष सरदार वल्लभभाई पटेल का निबंध संस्कृत में *

सरदार पटेलः महान् राजनीतिज्ञः आसीत् । लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत् । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्, “शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः १८७५ तमस्य वर्षस्य ‘अक्तूबर्’-मासस्य एकत्रिंशत् (३१) दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः।

लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, “मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्” इति ।

करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો…(मांय-मांय भणो)” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म ।

शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति ।

एकाधिकाँशदुत्तरैकोनविंशतिशततमे (१९३१) अब्दे केराचीनगरे काँग्रेसस्य, अधिवेशने से सभापतिपदमलं कृतवान् । सप्तचत्वारिंशदुत्तरे कोनविंशतिशततमे (१९४७) अब्दे यदा भारतः स्वतन्त्रतामवाप्तवान् तदा सरदार: देशस्य गृहमन्त्री उपप्रधानमन्त्री च नियुक्तोऽभवत् । गृहमन्त्रिरूपेण स समस्ते देशे इतस्ततः प्रकीर्णानि लघुनि राज्यानि भारते विलीनानि कृत्वा भारतस्य स्वतन्त्रतां स्थिरीकृतवान् । तत आरभ्यैव स ‘भारतस्य लौहपुरुषः’ इत्येतेन नाम्ना अभ्यधीयत ।।

पञ्च:शदुत्तरे कोनविंशतिशततमे (१९५०) अब्दे सितम्बरमासे पञ्सप्ततिवर्षावस्थाय’ हृदयगत्यवरोधेन तस्य निधनमभवत् ।।

इन्हें भी पढ़ें :-

Can Read Many More Sanskrit Essay
Essay on Science in Sanskrit for Class 10 Click Here
Diwali Essay in Sanskrit for Class 10 Click Here
Essay on Sadachar in Sanskrit for Class 10 Click Here
Essay on the Sanskrit Language in Sanskrit Click Here
Kalidas Nibandh in Sanskrit for Class 10 Click Here
Essay on Holi in Sanskrit for Class 10th Click Here
उद्यानम् का निबंध संस्कृत भाषा में Click Here
10 Sentence on Raksha Bandhan in Sanskrit Click Here
Essay on Chhattisgarh in Sanskrit Click Here

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button